(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.142. अध्यायः 142
Mahabharata - Udyoga Parva - Chapter Topics
कृष्णेन कर्णंप्रति पाण्डवजयनिर्धारणकथनपूर्वकं भीष्णादिषु युद्धसन्नाहसंदेशकथनचोदना ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text

वैशम्पायन उवाच। 5-142-0x(3803)(36664)
कर्णस्य वचनं श्रुत्वा केशवः परवीरहा।
उवाच प्रहसन्वाक्यं स्मितपूर्वमिदं यथा ॥ 5-142-1(36665)
श्रीभगवानुवाच। 5-142-2x(3804)
अपि त्वां न लभेत्कर्ण राज्यलम्भोपपादनम् ।
मया दत्तां हि पृथिवीं न प्रशासितुमिच्छसि ॥ 5-142-2(36666)
ध्रुवो जयः पाण्डवानामितीदं
न संशयः कश्चन विद्यतेऽत्र।
जयध्वजो दृश्यते पाण्डवस्य
समुच्छ्रितो वानरराज उग्रः । 5-142-3(36667)
दिव्या माया विहिता भौमनेन
समुच्छ्रिता इन्द्रकेतुप्रकाशाः ।
दिव्यानि भूतानि जयावहानि
दृश्यन्ति चैवात्र भयानकानि ॥ 5-142-4(36668)
न सञ्जते शैलवनस्पतिभ्य
ऊर्ध्वं तिर्यग्योजनमात्ररूपः ।
श्रीमान्ध्वजः कर्ण धनञ्जयस्य
समुच्छ्रितः पावकतुल्यरूपः ॥ 5-142-5(36669)
यदा द्रक्ष्यसि सङ्ग्रामे श्वेताश्वं कृष्णसारथिम् ।
ऐन्द्रमस्त्रं विकुर्वाणमुभे चाप्यग्निमारुते ॥ 5-142-6(36670)
गाण्डीवस्य च निर्घोषं विस्फूर्जितमिवाशनेः।
न तदा भविता त्रेता न कृतं द्वापरं न च ॥ 5-142-7(36671)
यदा द्रक्ष्यसि सङ्ग्रामे कुन्तीपुत्रं युधिष्ठिरम् ।
जपहोमसमायुक्तं स्वां रक्षन्तं महाचमूम् ॥ 5-142-8(36672)
आदित्यमिव दुर्धर्षं तपन्तं शत्रुवाहिनीम् ।
न तदा भविता त्रेता न कृतं द्वापरं न च ॥ 5-142-9(36673)
यदा द्रक्ष्यसि सङ्ग्रामे भीमसेनं महाबलम् ।
दुःशासनस्य रुधिरं पीत्वा नृत्यन्तमाहवे ॥ 5-142-10(36674)
प्रभिन्नमिव मातङ्गं प्रतिद्विरदघातिनम् ।
न तदा भविता त्रेता न कृतं द्वापरं न च ॥ 5-142-11(36675)
यदा द्रक्ष्यसि सङ्ग्रामे द्रोणं शान्तनवं कृपम् ।
सुयोधनंच राजानं सैन्धवं च जयद्रथम् ॥ 5-142-12(36676)
युद्धायापततस्तूर्णं वारितान्सव्यसाचिना।
न तदा भविता त्रेता न कृतं द्वापरं न च ॥ 5-142-13(36677)
यदा द्रक्ष्यसि सङ्ग्रामे माद्रीपुत्रौ महाबलौ ।
वाहिनीं धार्तराष्ट्राणां क्षोभयन्तौ गजाविव ॥ 5-142-14(36678)
विगाढे शस्त्रसंपाते परवीररथारुजौ ।
न तदा भविता त्रेता न कृतं द्वापरं न च ॥ 5-142-15(36679)
ब्रूयाः कर्ण इतो गत्वा द्रोणं शान्तनवं कृपम् ।
सौम्योऽयं वर्तते मासः सुप्रापयवसेन्धनः ॥ 5-142-16(36680)
सर्वौषधिवनस्फीतः फलवानल्पमक्षिकः ।
निष्पङ्को रसवत्तोयो नात्युष्णशिशिरः सुखः ॥ 5-142-17(36681)
सप्तमाच्चापि दिवसादमावास्या भविष्यति।
सङ्ग्रामो युज्यतां तस्यां तामाहुः शक्रदेवताम् ॥ 5-142-18(36682)
तथा राज्ञो वदेः सर्वान्ये युद्धायाभ्युपागताः।
यद्वो मनीषितं तद्वै सर्वं संपादयाम्यहम् ॥ 5-142-19(36683)
5-142-20(36684)
राजानो राजपुत्राश्च दुर्योधनवशानुगाः ।
प्राप्य शस्त्रेण निधनं प्राप्स्यन्ति गतिमुत्तमाम् ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-142-4 भौमनेन विश्वकर्मणा ॥ 5-142-18 संग्रामः संग्रामसाधनकलापः । बुज्यतां एकीभूयावतिष्ठताम् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.